नरसिंह कवच | Narasimha Kavacham PDF

Download PDF of Narasimha Kavacham Lyrics iskcon (Narsingh Kavach) in Sanskrit, Hindi, Tamil, Telugu, Malayalam, Kannada, and Bengali Language.

Hello readers, today we are going to share with you the Narasimha Kavacham PDF. As you all know, Lord Narasimha is considered to be an incarnation of Vishnu and the main deity of Hinduism. He is the fifth incarnation of Vishnu and took the form of Narasimha to protect his devotee Prahlad from the demon Kashyap. He descended from a pillar during twilight. He is considered a powerful and fierce incarnation of Lord Vishnu.

नरसिंह कवच एक प्रकार का अभेद्य सुरक्षा चक्र होता है, जो की यज्ञ, तंत्र मंत्रो से बना होता है और यह चक्र मनुष्य को बुरी शक्तियों से सुरक्षित रखता है। इस कवच का  श्रवण करने से मात्र जीवन की सभी बुराइयाँ व कठिनाइयाँ दूर हो जाती है।

Download PDF Now

Shri Narasimha Kavacham

नृसिंहकवचं वक्ष्ये प्रह्लादेनोदितं पुरा ।
सर्वरक्षाकरं पुण्यं सर्वोपद्रवनाशनम् ॥ 1 ॥

सर्वसम्पत्करं चैव स्वर्गमोक्षप्रदायकम् ।
ध्यात्वा नृसिंहं देवेशं हेमसिंहासनस्थितम् ॥ 2 ॥

विवृतास्यं त्रिनयनं शरदिन्दुसमप्रभम् ।
लक्ष्म्यालिङ्गितवामाङ्गं विभूतिभिरुपाश्रितम् ॥ 3 ॥

चतुर्भुजं कोमलाङ्गं स्वर्णकुण्डलशोभितम् ।
सरोजशोभितोरस्कं रत्नकेयूरमुद्रितम् ॥ 4 ॥ [रत्नकेयूरशोभितम्]

तप्तकाञ्चनसङ्काशं पीतनिर्मलवासनम् ।
इन्द्रादिसुरमौलिस्थस्फुरन्माणिक्यदीप्तिभिः ॥ 5 ॥

विराजितपदद्वन्द्वं शङ्खचक्रादिहेतिभिः ।
गरुत्मता सविनयं स्तूयमानं मुदान्वितम् ॥ 6 ॥

स्वहृत्कमलसंवासं कृत्वा तु कवचं पठेत् ।
नृसिंहो मे शिरः पातु लोकरक्षात्मसम्भवः ॥ 7 ॥

सर्वगोऽपि स्तम्भवासः फालं मे रक्षतु ध्वनिम् ।
नृसिंहो मे दृशौ पातु सोमसूर्याग्निलोचनः ॥ 8 ॥

स्मृतिं मे पातु नृहरिर्मुनिवर्यस्तुतिप्रियः ।
नासां मे सिंहनासस्तु मुखं लक्ष्मीमुखप्रियः ॥ 9 ॥

सर्वविद्याधिपः पातु नृसिंहो रसनां मम ।
वक्त्रं पात्विन्दुवदनः सदा प्रह्लादवन्दितः ॥ 10 ॥

See also  कृष्ण चालीसा | Shri Krishna Chalisa in Hindi PDF

नृसिंहः पातु मे कण्ठं स्कन्धौ भूभरणान्तकृत् ।
दिव्यास्त्रशोभितभुजो नृसिंहः पातु मे भुजौ ॥ 11 ॥

करौ मे देववरदो नृसिंहः पातु सर्वतः ।
हृदयं योगिसाध्यश्च निवासं पातु मे हरिः ॥ 12 ॥

मध्यं पातु हिरण्याक्षवक्षःकुक्षिविदारणः ।
नाभिं मे पातु नृहरिः स्वनाभि ब्रह्मसंस्तुतः ॥ 13 ॥

ब्रह्माण्डकोटयः कट्यां यस्यासौ पातु मे कटिम् ।
गुह्यं मे पातु गुह्यानां मन्त्राणां गुह्यरूपधृक् ॥ 14 ॥

ऊरू मनोभवः पातु जानुनी नररूपधृक् ।
जङ्घे पातु धराभारहर्ता योऽसौ नृकेसरी ॥ 15 ॥

सुरराज्यप्रदः पातु पादौ मे नृहरीश्वरः ।
सहस्रशीर्षा पुरुषः पातु मे सर्वशस्तनुम् ॥ 16 ॥

महोग्रः पूर्वतः पातु महावीराग्रजोऽग्नितः ।
महाविष्णुर्दक्षिणे तु महाज्वालस्तु नैरृतौ ॥ 17 ॥

पश्चिमे पातु सर्वेशो दिशि मे सर्वतोमुखः ।
नृसिंहः पातु वायव्यां सौम्यां भूषणविग्रहः ॥ 18 ॥

ईशान्यां पातु भद्रो मे सर्वमङ्गलदायकः ।
संसारभयदः पातु मृत्योर्मृत्युर्नृकेसरी ॥ 19 ॥

इदं नृसिंहकवचं प्रह्लादमुखमण्डितम् ।
भक्तिमान्यः पठेन्नित्यं सर्वपापैः प्रमुच्यते ॥ 20 ॥

पुत्रवान् धनवान् लोके दीर्घायुरुपजायते ।
यं यं कामयते कामं तं तं प्राप्नोत्यसंशयम् ॥ 21 ॥

सर्वत्र जयमाप्नोति सर्वत्र विजयी भवेत् ।
भूम्यन्तरिक्षदिव्यानां ग्रहाणां विनिवारणम् ॥ 22 ॥

वृश्चिकोरगसम्भूतविषापहरणं परम् ।
ब्रह्मराक्षसयक्षाणां दूरोत्सारणकारणम् ॥ 23 ॥

भूर्जे वा तालपत्रे वा कवचं लिखितं शुभम् ।
करमूले धृतं येन सिध्येयुः कर्मसिद्धयः ॥ 24 ॥

देवासुरमनुष्येषु स्वं स्वमेव जयं लभेत् ।
एकसन्ध्यं त्रिसन्ध्यं वा यः पठेन्नियतो नरः ॥ 25 ॥

सर्वमङ्गलमाङ्गल्यं भुक्तिं मुक्तिं च विन्दति ।
द्वात्रिंशतिसहस्राणि पठेच्छुद्धात्मनां नृणाम् ॥ 26 ॥

कवचस्यास्य मन्त्रस्य मन्त्रसिद्धिः प्रजायते ।
अनेन मन्त्रराजेन कृत्वा भस्माभिमन्त्रणम् ॥ 27 ॥

तिलकं विन्यसेद्यस्तु तस्य ग्रहभयं हरेत् ।
त्रिवारं जपमानस्तु दत्तं वार्यभिमन्त्र्य च ॥ 28 ॥

प्राशयेद्यो नरो मन्त्रं नृसिंहध्यानमाचरेत् ।
तस्य रोगाः प्रणश्यन्ति ये च स्युः कुक्षिसम्भवाः ॥ 29 ॥

See also  दशहरा पूजा विधि | Dussehra Puja Vidhi, Samagri PDF

किमत्र बहुनोक्तेन नृसिंहसदृशो भवेत् ।
मनसा चिन्तितं यत्तु स तच्चाप्नोत्यसंशयम् ॥ 30 ॥

गर्जन्तं गर्जयन्तं निजभुजपटलं स्फोटयन्तं हठन्तं
रूप्यन्तं तापयन्तं दिवि भुवि दितिजं क्षेपयन्तं क्षिपन्तम् ।
क्रन्दन्तं रोषयन्तं दिशि दिशि सततं संहरन्तं भरन्तं
वीक्षन्तं घूर्णयन्तं शरनिकरशतैर्दिव्यसिंहं नमामि ॥

इति श्रीब्रह्माण्डपुराणे प्रह्लादोक्तं श्री नृसिंह कवचम् ।

Narasimha Kavacham Benefits

This armor removes all obstacles and provides protection. It frees man from all sins and protects him from all directions. Here, it also fulfills wishes and gives wealth, age, etc. to the person. It removes the negative effects of planets. Lord Narasimha destroys all your diseases by reciting this mantra.

If the download link provided in the post (नरसिंह कवच | Narasimha Kavacham PDF) is not functioning or is in violation of the law or has any other issues, please contact us. If this post contains any copyrighted links or material, we will not provide its PDF or any other downloading source.

Leave a Comment

Join Our UPSC Material Group (Free)

X